मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७१, ऋक् ३

संहिता

अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वं शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय॑म् ।
हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घशं॑स ईशत ॥

पदपाठः

अद॑ब्धेभिः । स॒वि॒त॒रिति॑ । पा॒युऽभिः॑ । त्वम् । शि॒वेभिः॑ । अ॒द्य । परि॑ । पा॒हि॒ । नः॒ । गय॑म् ।
हिर॑ण्यऽजिह्वः । सु॒वि॒ताय॑ । नव्य॑से । रक्ष॑ । माकिः॑ । नः॒ । अ॒घऽशं॑सः । ई॒श॒त॒ ॥

सायणभाष्यम्

हे सवितः अदब्धेभिः अहिंसितैः पायुभिः तेजोभिः रक्षणसाधनैर्वा शिवेभिः सुखकारिभिः नोस्माकं गयं गृहं धनं वा गयः कृदरइति गृहनामसु मीह्ळं गयइति धननामसु पाठात् अद्य परिपाहि रक्ष । हिरण्यजिह्वो हितरमणीयवाक् त्वं तथाचयास्कः-हिरण्यंकस्मा- दित्युपक्रम्य हितरमणंभवतीतिवेति । सुविताय सुखाय नव्यसे नवतराय भव रक्ष अस्मान्पालय च नोस्माकमद्य शंसः अनर्थमाशंसमानः शत्रुः माकिरीशत मेशत ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५