मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७२, ऋक् २

संहिता

इन्द्रा॑सोमा वा॒सय॑थ उ॒षास॒मुत्सूर्यं॑ नयथो॒ ज्योति॑षा स॒ह ।
उप॒ द्यां स्क॒म्भथु॒ः स्कम्भ॑ने॒नाप्र॑थतं पृथि॒वीं मा॒तरं॒ वि ॥

पदपाठः

इन्द्रा॑सोमा । वा॒सय॑थः । उ॒षस॑म् । उत् । सूर्य॑म् । न॒य॒थः॒ । ज्योति॑षा । स॒ह ।
उप॑ । द्याम् । स्क॒म्भथुः॑ । स्कम्भ॑नेन । अप्र॑थतम् । पृ॒थि॒वीम् । मा॒तर॑म् । वि ॥

सायणभाष्यम्

इन्द्रासोमा हे इन्द्रासोमौ उषसं वासयथः विवासयथः उषसं व्युच्छन्तीं कारयथ इत्यर्थः । किं च सूर्यं ज्योतिषा तेजसा सह उन्नयथः अपि च द्यां दिवं स्कंभनेन स्तंभनहेतुनान्तरिक्षेण मध्ये स्थापितेन उपस्कंभथुः अस्तंभयतं मातरं विश्वस्य मातृभूतां पृथिवीं व्यप्रथतं व्यप्रथयतम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६