मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् १

संहिता

अ॒ग्निं नरो॒ दीधि॑तिभिर॒रण्यो॒र्हस्त॑च्युती जनयन्त प्रश॒स्तम् ।
दू॒रे॒दृशं॑ गृ॒हप॑तिमथ॒र्युम् ॥

पदपाठः

अ॒ग्निम् । नरः॑ । दीधि॑तिऽभिः । अ॒रण्योः॑ । हस्त॑ऽच्युती । ज॒न॒य॒न्त॒ । प्र॒ऽश॒स्तम् ।
दू॒रे॒ऽदृश॑म् । गृ॒हऽप॑तिम् । अ॒थ॒र्युम् ॥

सायणभाष्यम्

नरो नेतारऋत्विजः प्रशस्तं प्रकर्षेण स्तुतं दूरेदृशं दूरेदृश्यमानं दूरेपश्यन्तं वा गृहपतिं गृहाणां पालकं अथर्युं आगम्यमतनवन्तंवाग्निं अरण्योर्विद्यमानं हस्तच्युती हस्तप्रच्युत्या हस्तगत्या दीधितिभिः अंगुलिभिः जनयन्त दीधितयोंगुलयो भवन्ति धीयन्ते कर्मस्वरणी प्रत्यृतएने अग्निसमरणाज्जायतइतिवा हस्तच्युती हस्तप्रच्युत्या जनयंत प्रशस्तं दूरेदर्शनं गृहपतिमतनवन्तमिति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३