मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् ४

संहिता

प्र ते अ॒ग्नयो॒ऽग्निभ्यो॒ वरं॒ निः सु॒वीरा॑सः शोशुचन्त द्यु॒मन्त॑ः ।
यत्रा॒ नरः॑ स॒मास॑ते सुजा॒ताः ॥

पदपाठः

प्र । ते । अ॒ग्नयः॑ । अ॒ग्निऽभ्यः॑ । वर॑म् । निः । सु॒ऽवीरा॑सः । शो॒शु॒च॒न्त॒ । द्यु॒ऽमन्तः॑ ।
यत्र॑ । नरः॑ । स॒म्ऽआस॑ते । सु॒ऽजा॒ताः ॥

सायणभाष्यम्

अग्निभ्यो लौकिकेभ्योग्निभ्यः वरं अत्यन्तं द्युमन्तोदीप्तिमन्तः सुवीरासः कल्याणपुत्रपौत्रप्रदाः ते अग्नयो प्रनिःशोशुचन्त प्रकर्षेण नितरां दीप्यन्ते यत्र येष्वग्निषु सुजाताः सुजन्मानः नरः कर्मणां नेतारो यजमाना ऋत्विजो वा समासते सहासते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३