मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् ६

संहिता

उप॒ यमेति॑ युव॒तिः सु॒दक्षं॑ दो॒षा वस्तो॑र्ह॒विष्म॑ती घृ॒ताची॑ ।
उप॒ स्वैन॑म॒रम॑तिर्वसू॒युः ॥

पदपाठः

उप॑ । यम् । एति॑ । यु॒व॒तिः । सु॒ऽदक्ष॑म् । दो॒षा । वस्तोः॑ । ह॒विष्म॑ती । घृ॒ताची॑ ।
उप॑ । स्वा । ए॒न॒म् । अ॒रम॑तिः । व॒सु॒ऽयुः ॥

सायणभाष्यम्

सुदक्षं सुबलं यमग्निं हविष्मती हविषा युक्ता घृताची घृतमंचतीति घृताची जुहूः युवतिः अग्निना नित्ययुक्ता दोषा वस्तोः रात्रावहनि च उपैति उपगच्छति तमेनं स्वा स्वकीया अरमतिः दीप्तिः वसुयुः स्तोतॄणां धनमिच्छन्ती उपैति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४