मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् १३

संहिता

पा॒हि नो॑ अग्ने र॒क्षसो॒ अजु॑ष्टात्पा॒हि धू॒र्तेरर॑रुषो अघा॒योः ।
त्वा यु॒जा पृ॑तना॒यूँर॒भि ष्या॑म् ॥

पदपाठः

पा॒हि । नः॒ । अ॒ग्ने॒ । र॒क्षसः॑ । अजु॑ष्टात् । पा॒हि । धू॒र्तेः । अर॑रुषः । अ॒घ॒ऽयोः ।
त्वा । यु॒जा । पृ॒त॒ना॒ऽयून् । अ॒भि । स्या॒म् ॥

सायणभाष्यम्

हे अग्ने नोस्मान् अजुष्टात् अप्रीतिविषयात् रक्षसो राक्षसात् पाहि रक्ष किं च अररुषोऽदातुः अघायोः पापमिच्छतः धूर्तोर्हिसकात् पाहि । अपि च त्वा त्वया युजा सहायभूतेन पृतनायून् पृतनाकामान् अभिष्यां अहमभिभवेयं ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५