मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् १६

संहिता

अ॒यं सो अ॒ग्निराहु॑तः पुरु॒त्रा यमीशा॑न॒ः समिदि॒न्धे ह॒विष्मा॑न् ।
परि॒ यमेत्य॑ध्व॒रेषु॒ होता॑ ॥

पदपाठः

अ॒यम् । सः । अ॒ग्निः । आऽहु॑तः । पु॒रु॒ऽत्रा । यम् । ईशा॑नः । सम् । इत् । इ॒न्धे । ह॒विष्मा॑न् ।
परि॑ । यम् । एति॑ । अ॒ध्व॒रेषु॑ । होता॑ ॥

सायणभाष्यम्

यमग्निं ईशानः समृद्धः ऎश्वर्यमिच्छन् वा हविष्मान् यजमानः समिदिन्धे सम्यग्दीपयतियं चाध्वरेषु हिंसारहितेषु यज्ञेषु होता देवाना- माह्वाता पर्येति परिगच्छति सोयमग्निः पुरुत्रा बहुषु देशेषु बहुषु यज्ञेषुवा आहुतः आहुतिभिरभिहुतः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६