मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २, ऋक् १

संहिता

जु॒षस्व॑ नः स॒मिध॑मग्ने अ॒द्य शोचा॑ बृ॒हद्य॑ज॒तं धू॒ममृ॒ण्वन् ।
उप॑ स्पृश दि॒व्यं सानु॒ स्तूपै॒ः सं र॒श्मिभि॑स्ततन॒ः सूर्य॑स्य ॥

पदपाठः

जु॒षस्व॑ । नः॒ । स॒म्ऽइध॑म् । अ॒ग्ने॒ । अ॒द्य । शोच॑ । बृ॒हत् । य॒ज॒तम् । धू॒मम् । ऋ॒ण्वन् ।
उप॑ । स्पृ॒श॒ । दि॒व्यम् । सानु॑ । स्तूपैः॑ । सम् । र॒श्मिऽभिः॑ । त॒त॒नः॒ । सूर्य॑स्य ॥

सायणभाष्यम्

जुषस्वनइत्येकादशर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं आप्रशब्दोक्तत्वात् इदं तनूनपाद्रहितं समिद्धा द्याअग्निविशेषाः प्रत्यृचं देवताउक्ताः तथाचानुक्रम्यते-जुषस्वैकादशाप्रमिति । पशाविष्टाविदमाप्रीसूक्तं सूत्रितं च-जुषस्वनःसमिधमिति वसिष्ठानामिति । पत्नीसंयाजे त्वाष्ट्र- या गस्ययाज्या त्वाष्ट्रे पशावपिपुरोडाशस्यानवाक्येयमिति पूर्वमुक्तम् ।

हे अग्ने नोस्माकं समिधं अद्य जुषस्व सेवस्व यजतं यजनीयं प्रशस्तं धूमं ऋण्वन् प्रेरयन् बृहदत्यन्तं शोच दीप्यस्व च किंच दिव्यमन्तरिक्षभवं सानु समुच्छ्रितं स्तूपैः तप्तैः रश्मिभिः उपस्पृश अपि च सूर्यस्य रश्मिभिस्तेजोभिः संततनः संगच्छस्व ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः