मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३, ऋक् ३

संहिता

उद्यस्य॑ ते॒ नव॑जातस्य॒ वृष्णोऽग्ने॒ चर॑न्त्य॒जरा॑ इधा॒नाः ।
अच्छा॒ द्याम॑रु॒षो धू॒म ए॑ति॒ सं दू॒तो अ॑ग्न॒ ईय॑से॒ हि दे॒वान् ॥

पदपाठः

उत् । यस्य॑ । ते॒ । नव॑ऽजातस्य । वृष्णः॑ । अग्ने॑ । चर॑न्ति । अ॒जराः॑ । इ॒धा॒नाः ।
अच्छ॑ । द्याम् । अ॒रु॒षः । धू॒मः । ए॒ति॒ । सम् । दू॒तः । अ॒ग्ने॒ । ईय॑से । हि । दे॒वान् ॥

सायणभाष्यम्

हे अग्ने नवजातस्य नवप्रादुर्भावस्य वृष्णोवर्षितुर्यस्य ते तव अजराः जरारहिताः ज्वालाः इधानाः समिध्यमानाः उञ्चर्न्त्युद्गच्छन्ति । अस्यअरुषः अरोचमानो धूमोद्यामच्छ दिवमभिएति अभिगच्छति । हे अग्ने त्वं दूतः सन् समीयसेहि संप्राप्नोषिच ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः