मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४, ऋक् ३

संहिता

अ॒स्य दे॒वस्य॑ सं॒सद्यनी॑के॒ यं मर्ता॑सः श्ये॒तं ज॑गृ॒भ्रे ।
नि यो गृभं॒ पौरु॑षेयीमु॒वोच॑ दु॒रोक॑म॒ग्निरा॒यवे॑ शुशोच ॥

पदपाठः

अ॒स्य । दे॒वस्य॑ । स॒म्ऽसदि॑ । अनी॑के । यम् । मर्ता॑सः । श्ये॒तम् । ज॒गृ॒भ्रे ।
नि । यः । गृभ॑म् । पौरु॑षेयीम् । उ॒वोच॑ । दुः॒ऽओक॑म् । अ॒ग्निः । आ॒यवे॑ । शु॒शो॒च॒ ॥

सायणभाष्यम्

अस्य देवस्याग्नेः अनीके मुख्ये संसदि स्थाने श्येतं श्वेतं शुभ्रं यमग्निं मर्तासो मनुष्याः जगृभ्रे परिगृह्णंति । यश्चाग्निः पौरुषेयीं पुरुषैः क्रियमाणां गृभं गृभीतं निउवोच अत्र वचिः सेवार्थे वर्तते निषेवतइत्यर्थः । सोग्निः आयवे वनुष्यार्थं दुह्यवः आयवइति मनुष्यनामसु पाठात् दुरोकं सपत्नैर्दुःसेवं यथा भवति तथा शुशोच दीप्यते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः