मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४, ऋक् ४

संहिता

अ॒यं क॒विरक॑विषु॒ प्रचे॑ता॒ मर्ते॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि ।
स मा नो॒ अत्र॑ जुहुरः सहस्व॒ः सदा॒ त्वे सु॒मन॑सः स्याम ॥

पदपाठः

अ॒यम् । क॒विः । अक॑विषु । प्रऽचे॑ताः । मर्ते॑षु । अ॒ग्निः । अ॒मृतः॑ । नि । धा॒यि॒ ।
सः । मा । नः॒ । अत्र॑ । जु॒हु॒रः॒ । स॒ह॒स्वः॒ । सदा॑ । त्वे इति॑ । सु॒ऽमन॑सः । स्या॒म॒ ॥

सायणभाष्यम्

कविः क्रान्तदृक् प्रचेताः प्रकाशकः अमृतोमरणधर्मरहितोयमग्निः अकविषु अक्रान्तदृक्षु मर्तेषु मरणधर्मकेषु निधायि निहितः । अथ प्रत्यक्षस्तुतिः सहस्वोबलवन्नग्ने त्वे यस्मिन् त्वयि सदा वयं सुमनसः सुमतयः स्याम । सत्वं अत्रास्मिन् लोके नोस्मान् माजुहुरः मा हिंसीः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः