मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४, ऋक् ६

संहिता

ईशे॒ ह्य१॒॑ग्निर॒मृत॑स्य॒ भूरे॒रीशे॑ रा॒यः सु॒वीर्य॑स्य॒ दातो॑ः ।
मा त्वा॑ व॒यं स॑हसावन्न॒वीरा॒ माप्स॑व॒ः परि॑ षदाम॒ मादु॑वः ॥

पदपाठः

ईशे॑ । हि । अ॒ग्निः । अ॒मृत॑स्य । भूरेः॑ । ईशे॑ । रा॒यः । सु॒ऽवीर्य॑स्य । दातोः॑ ।
मा । त्वा॒ । व॒यम् । स॒ह॒सा॒ऽव॒न् । अ॒वीराः॑ । मा । अप्स॑वः । परि॑ । स॒दा॒म॒ । मा । अदु॑वः ॥

सायणभाष्यम्

अमृतस्य अमृतमन्नमुदकं वा द्वितीयार्थे षष्ठी भूरेरधिकं दातोर्दातुमग्निः ईशे ईष्टे हि । सुवीर्यस्य शोभनवीर्ययुक्तं रायो धनं दातुं ईशे ईष्टे । अथ प्रत्यक्षस्तुतिः सहसावान् हे बलवन्नग्ने वयं वसिष्ठाः अवीराः पुत्रादिरहिताःसन्तः मापरिषदाम मापर्युपविशाम । अप्सवो रूपरहि- ताश्चसंतो मापरिषदाम । तथा च यास्कः-अप्सइति रूपनामेति अदुवः परिचरणहीनाश्च मापरिषदाम ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः