मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४, ऋक् ८

संहिता

न॒हि ग्रभा॒यार॑णः सु॒शेवो॒ऽन्योद॑र्यो॒ मन॑सा॒ मन्त॒वा उ॑ ।
अधा॑ चि॒दोक॒ः पुन॒रित्स ए॒त्या नो॑ वा॒ज्य॑भी॒षाळे॑तु॒ नव्य॑ः ॥

पदपाठः

न॒हि । ग्रभा॑य । अर॑णः । सु॒ऽशेवः॑ । अ॒न्यऽउ॑दर्यः । मन॑सा । मन्त॒वै । ऊं॒ इति॑ ।
अध॑ । चि॒त् । ओकः॑ । पुनः॑ । इत् । सः । ए॒ति॒ । आ । नः॒ । वा॒जी । अ॒भी॒षाट् । ए॒तु॒ । नव्यः॑ ॥

सायणभाष्यम्

पूर्वस्यामृच्युक्तएवार्थोत्र प्रपंच्यते अरणो रममाणो न्योदर्यः सुशेवः सुखतमःसन् ग्रभाय पुत्रत्वेन ग्रहणाय मनसा मन्तवाउ मनसापि- मन्तव्यो नभवति । अधचित् अपि च सोन्योदर्यः ओकइत् संस्थानमेव पुनरेति प्राप्नोति अतो वाजी अन्नवान् अभीषाट् शत्रूणामभि- भविता नव्यो नवजातः पुत्रो नोस्मान् आएतु आगच्छतु ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः