मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५, ऋक् १

संहिता

प्राग्नये॑ त॒वसे॑ भरध्वं॒ गिरं॑ दि॒वो अ॑र॒तये॑ पृथि॒व्याः ।
यो विश्वे॑षाम॒मृता॑नामु॒पस्थे॑ वैश्वान॒रो वा॑वृ॒धे जा॑गृ॒वद्भि॑ः ॥

पदपाठः

प्र । अ॒ग्नये॑ । त॒वसे॑ । भ॒र॒ध्व॒म् । गिर॑म् । दि॒वः । अ॒र॒तये॑ । पृ॒थि॒व्याः ।
यः । विश्वे॑षाम् । अ॒मृता॑नाम् । उ॒पऽस्थे॑ । वै॒श्वा॒न॒रः । व॒वृ॒धे । जा॒गृ॒वत्ऽभिः॑ ॥

सायणभाष्यम्

हे स्तोतारः तवसे प्रवृद्धाय दिवोन्तरिक्षस्य पृथिव्याश्च अरतये गंत्रे अग्नये वैश्वानरसंज्ञकाय अग्नये गिरं स्तुतिं प्रभरध्वम् । यो वैश्वानरो विश्वनरहितोग्निः विश्वेषां सर्वेषाममृतानां देवानां उपस्थे उपस्थाने यज्ञे जागृवद्भिः प्रबुद्धैः देवैः सहितःसन् ववृधे स्तुतिभिर्हविर्भिश्च वर्धते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः