मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५, ऋक् ४

संहिता

तव॑ त्रि॒धातु॑ पृथि॒वी उ॒त द्यौर्वैश्वा॑नर व्र॒तम॑ग्ने सचन्त ।
त्वं भा॒सा रोद॑सी॒ आ त॑त॒न्थाज॑स्रेण शो॒चिषा॒ शोशु॑चानः ॥

पदपाठः

तव॑ । त्रि॒ऽधातु॑ । पृ॒थि॒वी । उ॒त । द्यौः । वैश्वा॑नर । व्र॒तम् । अ॒ग्ने॒ । स॒च॒न्त॒ ।
त्वम् । भा॒सा । रोद॑सी॒ इति॑ । आ । त॒त॒न्थ॒ । अज॑स्रेण । शो॒चिषा॑ । शोशु॑चानः ॥

सायणभाष्यम्

हे वैश्वानर विश्वेषां नराणां नेतरग्ने तथा च यास्कः-वेश्वानरः कस्माद्विश्वान्नरान्नयति विश्व एनं नरा नयन्तीति वेति । तव व्रतं त्वत्प्रीति- करं कर्म त्रिधातु अन्तरिक्षं पृथिवी च उतापि च द्यौरिति त्रयो लोकाः सचन्ते सेवन्ते त्रैलोक्यवर्तिन्यः प्रजाः त्वदर्थं कर्म कुर्वन्तीत्यर्थः । अपि च त्वं अजस्रेण नित्येन शोचिषा प्रकाशेन शोशुचानो दीप्यमानो भासा दीप्त्या रोदसी द्यावापृथिव्यौ चाततंथ विस्तारयसि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः