मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५, ऋक् ७

संहिता

स जाय॑मानः पर॒मे व्यो॑मन्वा॒युर्न पाथ॒ः परि॑ पासि स॒द्यः ।
त्वं भुव॑ना ज॒नय॑न्न॒भि क्र॒न्नप॑त्याय जातवेदो दश॒स्यन् ॥

पदपाठः

सः । जाय॑मानः । प॒र॒मे । विऽओ॑मन् । वा॒युः । न । पाथः॑ । परि॑ । पा॒सि॒ । स॒द्यः ।
त्वम् । भुव॑ना । ज॒नय॑न् । अ॒भि । क्र॒न् । अप॑त्याय । जा॒त॒ऽवे॒दः॒ । द॒श॒स्यन् ॥

सायणभाष्यम्

हे वैश्वानर सप्रसिद्धः त्वं परमे दूरस्थे व्योमन्नन्तरिक्षे जायमानः सूर्यरूपेण प्रादुर्भवन् वायुर्न यथा वायुः द्विदेवत्यग्रहेषु प्रथमं सोमं पिबति तथा पाथः सोमं सद्यः परिपासि परिपिबसि यद्वा वायुरिव पाथो जलं परिपासि परिपिबसि शोषयसीत्यर्थः । किं च हे जातवेदः जातधनाग्ने त्वं भुवना भुवनानि उदकानि भूतं भुवनमित्युदक नामसु पाठात् जनयन् अपत्याय अपत्यवत्पालनीयाय यजमानाय दशस्यन् कामांश्च यच्छन् अभिक्रतून् वैद्युतात्मना अभिक्रन्दसि अभिगर्जसि वा ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः