मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६, ऋक् ७

संहिता

आ दे॒वो द॑दे बु॒ध्न्या॒३॒॑ वसू॑नि वैश्वान॒र उदि॑ता॒ सूर्य॑स्य ।
आ स॑मु॒द्रादव॑रा॒दा पर॑स्मा॒दाग्निर्द॑दे दि॒व आ पृ॑थि॒व्याः ॥

पदपाठः

आ । दे॒वः । द॒दे॒ । बु॒ध्न्या॑ । वसू॑नि । वै॒श्वा॒न॒रः । उत्ऽइ॑ता । सूर्य॑स्य ।
आ । स॒मु॒द्रात् । अव॑रात् । आ । पर॑स्मात् । आ । अ॒ग्निः । द॒दे॒ । दि॒वः । आ । पृ॒थि॒व्याः ॥

सायणभाष्यम्

वैश्वानरो विश्वनरहितोग्निः देवो द्योतमानः बुध्न्या बुध्न्यानि अन्तरिक्षाणि बुध्नमन्तरिक्षं तथा च यास्कः-बुध्नमरिक्षं बद्धा अस्मिन् धृता आप इति वेति । वसूनि आच्छादकानि तमांसि वसआच्छादने इति धातुः सूर्यस्य उदिता उदितौ उदयेसति आददे समुद्रादन्तरिक्षात् सगरः समुद्र इत्यन्तरिक्ष नामसु पाठात् अवरात् पृथिव्याः तमांस्याददे समुद्रात्परस्माद्दिवोपि तमां स्याददे तदेव दर्शयति अग्निर्दिवस्त- मांस्याददे पृथिव्याश्च तमांस्याददे ॥ ७ ॥

प्रवोदेवमिति सप्तर्चं सप्तमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयं प्रवोदेवमित्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्दशसूक्ते उक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः