मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७, ऋक् ५

संहिता

असा॑दि वृ॒तो वह्नि॑राजग॒न्वान॒ग्निर्ब्र॒ह्मा नृ॒षद॑ने विध॒र्ता ।
द्यौश्च॒ यं पृ॑थि॒वी वा॑वृ॒धाते॒ आ यं होता॒ यज॑ति वि॒श्ववा॑रम् ॥

पदपाठः

असा॑दि । वृ॒तः । वह्निः॑ । आ॒ऽज॒ग॒न्वान् । अ॒ग्निः । ब्र॒ह्मा । नृ॒ऽसद॑ने । वि॒ऽध॒र्ता ।
द्यौः । च॒ । यम् । पृ॒थि॒वी । व॒वृ॒धाते॒ इति॑ । आ । यम् । होता॑ । यज॑ति । वि॒श्वऽवा॑रम् ॥

सायणभाष्यम्

वृतो होतृत्वेन वह्निर्हविषां वोढा ब्रह्मा परिवृढः विधर्ता विश्वस्य धारकोग्निः आजगन्वान् द्युलोकादागतः आगमनशीलोवा नृषदने होतुःस्थाने असादि उपविष्टः । यमग्निं द्यौश्च पृथिवी च उभे ववृधाते वर्धयतः यं च विश्ववारं विश्वैर्वरणीयं होता मानुष आयजति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०