मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८, ऋक् २

संहिता

अ॒यमु॒ ष्य सुम॑हाँ अवेदि॒ होता॑ म॒न्द्रो मनु॑षो य॒ह्वो अ॒ग्निः ।
वि भा अ॑कः ससृजा॒नः पृ॑थि॒व्यां कृ॒ष्णप॑वि॒रोष॑धीभिर्ववक्षे ॥

पदपाठः

अ॒यम् । ऊं॒ इति॑ । स्यः । सुऽम॑हान् । अ॒वे॒दि॒ । होता॑ । म॒न्द्रः । मनु॑षः । य॒ह्वः । अ॒ग्निः ।
वि । भाः । अ॒क॒रित्य॑कः । स॒सृ॒जा॒नः । पृ॒थि॒व्याम् । कृ॒ष्णऽप॑विः । ओष॑धीभिः । व॒व॒क्षे॒ ॥

सायणभाष्यम्

स्यः सोयं होता देवानामाह्वाता मन्द्रो मदयिता यह्वो महानग्निः मनुषो मनुष्यस्य सुमहानवेदि सुमहत्त्वेन प्रज्ञायते । अपि च सोयं भाः दीप्तिः व्यकः विकरोति अन्तरिक्षे । किं च सोयं कृष्णपविः कृष्णमार्गोग्निः पृथिव्यां ससृजानः सृज्यमानः सन्नोषधीभिर्ववक्षे वर्धयते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११