मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८, ऋक् ४

संहिता

प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः ।
अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ द्यु॑ता॒नो दैव्यो॒ अति॑थिः शुशोच ॥

पदपाठः

प्रऽप्र॑ । अ॒यम् । अ॒ग्निः । भ॒र॒तस्य॑ । शृ॒ण्वे॒ । वि । यत् । सूर्यः॑ । न । रोच॑ते । बृ॒हत् । भाः ।
अ॒भि । यः । पू॒रुम् । पृत॑नासु । त॒स्थौ । द्यु॒ता॒नः । दैव्यः॑ । अति॑थिः । शु॒शो॒च॒ ॥

सायणभाष्यम्

अयं प्रसिद्धोग्निः भरतस्य यजमानस्य मम प्रप्र अत्यन्तं श्रृण्वे प्रथितोभवति । कदेत्यत्राह यद्यदा सूर्योन सूर्यइव बृहद्भाः बृहद्भासमानो विरोचते प्रकाशते । किं च योग्निः पृतनासु संग्रामेषु पूरुं पुरुनामकमसुरं अभितस्थौ अभिबभूव । सोयं द्युता दीप्यमानो दैव्योतिथिः देवानामतिथिवत्पूज्यःसन् शुचोच जज्वाल ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११