मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९, ऋक् ३

संहिता

अमू॑रः क॒विरदि॑तिर्वि॒वस्वा॑न्त्सुसं॒सन्मि॒त्रो अति॑थिः शि॒वो नः॑ ।
चि॒त्रभा॑नुरु॒षसां॑ भा॒त्यग्रे॒ऽपां गर्भ॑ः प्र॒स्व१॒॑ आ वि॑वेश ॥

पदपाठः

अमू॑रः । क॒विः । अदि॑तिः । वि॒वस्वा॑न् । सु॒ऽसं॒सत् । मि॒त्रः । अति॑थिः । शि॒वः । नः॒ ।
चि॒त्रऽभा॑नुः । उ॒षसा॑म् । भा॒ति॒ । अग्रे॑ । अ॒पाम् । गर्भः॑ । प्र॒ऽस्वः॑ । आ । वि॒वे॒श॒ ॥

सायणभाष्यम्

योग्निरमूरोमूढः कविः प्राज्ञः अदितिरदीनः विवस्वान् दीप्तिमान् सुसंसत् शोभनसदनः शोभनसंवेदनोवा मित्रः प्रमीतेस्त्राता सर्वेषां अतिथिः अतिथिवत्पूज्यः शिवः शिवकरोजगतः चित्रभानुः चित्रदीप्तिः उषसामग्ने मुखे भाति । सोयमापां गर्भःसन् प्रस्वः जायमानाः ओषधीराविवेश ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२