मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९, ऋक् ५

संहिता

अग्ने॑ या॒हि दू॒त्यं१॒॑ मा रि॑षण्यो दे॒वाँ अच्छा॑ ब्रह्म॒कृता॑ ग॒णेन॑ ।
सर॑स्वतीं म॒रुतो॑ अ॒श्विना॒पो यक्षि॑ दे॒वान्र॑त्न॒धेया॑य॒ विश्वा॑न् ॥

पदपाठः

अग्ने॑ । या॒हि । दू॒त्य॑म् । मा । रि॒ष॒ण्यः॒ । दे॒वान् । अच्छ॑ । ब्र॒ह्म॒ऽकृता॑ । ग॒णेन॑ ।
सर॑स्वतीम् । म॒रुतः॑ । अ॒श्विना॑ । अ॒पः । यक्षि॑ । दे॒वान् । र॒त्न॒ऽधेया॑य । विश्वा॑न् ॥

सायणभाष्यम्

हे अग्ने दूत्यं दूतस्य कर्म हविर्वहनादि याहि देवानच्छाभिगच्छ । गणेन संघेन सह ब्रह्मकृता ब्रह्मकृतोस्मान् अस्मदीयांश्च तव स्तोतॄन् मारिषण्यः माहिंसीः सरस्वतीं मरुतो आश्वना अश्विनौ अपश्च एतान् देवान् रत्नधेयायास्मभ्यं रत्नदानाय यक्षिच ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२