मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०, ऋक् ३

संहिता

अच्छा॒ गिरो॑ म॒तयो॑ देव॒यन्ती॑र॒ग्निं य॑न्ति॒ द्रवि॑णं॒ भिक्ष॑माणाः ।
सु॒सं॒दृशं॑ सु॒प्रती॑कं॒ स्वञ्चं॑ हव्य॒वाह॑मर॒तिं मानु॑षाणाम् ॥

पदपाठः

अच्छ॑ । गिरः॑ । म॒तयः॑ । दे॒व॒ऽयन्तीः॑ । अ॒ग्निम् । य॒न्ति॒ । द्रवि॑णम् । भिक्ष॑माणाः ।
सु॒ऽस॒न्दृश॑म् । सु॒ऽप्रती॑कम् । सु॒ऽअञ्च॑म् । ह॒व्य॒ऽवाह॑म् । अ॒र॒तिम् । मानु॑षाणाम् ॥

सायणभाष्यम्

मतयः स्तुतिरूपाः देवयन्तीर्देवानिच्छन्त्यो द्रविणं धनं भिक्षमाणाः यात्रमानाः गिरोवाचः सुसंदृशं कल्याणसंदर्शनं सुप्रतीकं सुरूपं शो- भनांगंवा स्वंचं सुष्ठु गच्छन्तं हव्यवाहं हव्यानां वोढारं मानुषाणामरीतं स्वामिनमग्निं अच्छाभियन्ति अभिगच्छन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३