मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ११, ऋक् ४

संहिता

अ॒ग्निरी॑शे बृह॒तो अ॑ध्व॒रस्या॒ग्निर्विश्व॑स्य ह॒विषः॑ कृ॒तस्य॑ ।
क्रतुं॒ ह्य॑स्य॒ वस॑वो जु॒षन्ताथा॑ दे॒वा द॑धिरे हव्य॒वाह॑म् ॥

पदपाठः

अ॒ग्निः । ई॒शे॒ । बृ॒ह॒तः । अ॒ध्व॒रस्य॑ । अ॒ग्निः । विश्व॑स्य । ह॒विषः॑ । कृ॒तस्य॑ ।
क्रतु॑म् । हि । अ॒स्य॒ । वस॑वः । जु॒षन्त॑ । अथ॑ । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् ॥

सायणभाष्यम्

बृहतो महतो अध्वरस्य कौटिल्यरहितस्य यज्ञस्य अग्निरीशे ईष्टे विश्वस्य सर्वस्य कृतस्य संस्कृतस्य हविषः चाग्निरेवेष्टे हियस्मादस्याग्नेः क्रतुं कर्म वसवो देवाः जुषन्त सेवन्ते अथापि च देवाः अग्निं हव्यवाहं हव्यानां वोढारं दधिरे चक्रिरे इत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४