मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १२, ऋक् १

संहिता

अग॑न्म म॒हा नम॑सा॒ यवि॑ष्ठं॒ यो दी॒दाय॒ समि॑द्ध॒ः स्वे दु॑रो॒णे ।
चि॒त्रभा॑नुं॒ रोद॑सी अ॒न्तरु॒र्वी स्वा॑हुतं वि॒श्वतः॑ प्र॒त्यञ्च॑म् ॥

पदपाठः

अग॑न्म । म॒हा । नम॑सा । यवि॑ष्ठम् । यः । दी॒दाय॑ । सम्ऽइ॑द्धः । स्वे । दु॒रो॒णे ।
चि॒त्रऽभा॑नुम् । रोद॑सी॒ इति॑ । अ॒न्तः । उ॒र्वी इति॑ । सुऽआ॑हुतम् । वि॒श्वतः॑ । प्र॒त्यञ्च॑म् ॥

सायणभाष्यम्

योग्निः स्वेदुरोणे स्वेस्थाने आहवनीये समिद्धः काष्ठैः समिद्धःसन् दीदाय दीप्यते तमिमं यविष्ठं युवतमं उर्वी विस्तीर्णयोः रोदसी रोदस्योः द्यावापृथिव्योरन्तर्मध्येन्तरिक्षे चित्रभानुं चित्रज्वालं स्वाहुतं सुष्ठु आहुतिभिर्हुतं सन्तं विश्वतः सर्वतः प्रत्यञ्चं प्रतिगच्छन्तमग्निं महा महता नमस्कारेण अगन्म वयमुपगच्छाम ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५