मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १५, ऋक् १३

संहिता

अग्ने॒ रक्षा॑ णो॒ अंह॑स॒ः प्रति॑ ष्म देव॒ रीष॑तः ।
तपि॑ष्ठैर॒जरो॑ दह ॥

पदपाठः

अग्ने॑ । रक्ष॑ । नः॒ । अंह॑सः । प्रति॑ । स्म॒ । दे॒व॒ । रिष॑तः ।
तपि॑ष्ठैः । अ॒जरः॑ । द॒ह॒ ॥

सायणभाष्यम्

हे अग्ने त्वं नोस्मान् अंहसः पापात् रक्ष पाहि । संहितायां दीर्घश्छान्दसः अपिच हे देव द्योतमानाग्ने अजरो जरारहितस्त्वं रिषतो हिंसतः शत्रून् तपिष्ठैरतिशयेन तापकैस्तेजोभिः दह भस्मीकुरु ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०