मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १६, ऋक् ३

संहिता

उद॑स्य शो॒चिर॑स्थादा॒जुह्वा॑नस्य मी॒ळ्हुषः॑ ।
उद्धू॒मासो॑ अरु॒षासो॑ दिवि॒स्पृश॒ः सम॒ग्निमि॑न्धते॒ नरः॑ ॥

पदपाठः

उत् । अ॒स्य॒ । शो॒चिः । अ॒स्था॒त् । आ॒ऽजुह्वा॑नस्य । मी॒ळ्हुषः॑ ।
उत् । धू॒मासः॑ । अ॒रु॒षासः॑ । दि॒वि॒ऽस्पृशः॑ । सम् । अ॒ग्निम् । इ॒न्ध॒ते॒ । नरः॑ ॥

सायणभाष्यम्

मीह्ळुषः कामानां वर्षितुः आजुह्वानस्याभिहूयमानस्याग्नेः शोचिस्तेजः उदस्थादुत्तिष्ठति अरुषासः आरोचमानाः दिविस्पृशोन्तरिक्ष- स्पृशो धूमासोधूमाश्च उदस्थुः अस्थात् इत्येकवचनान्तं बहुवचनान्ततया विपरिणतंसदत्रान्वेति । तमिममग्निं नरः कर्मणां नेतारः ऋत्विजः समिन्धते सम्यक् दीपयन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१