मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १७, ऋक् १

संहिता

अग्ने॒ भव॑ सुष॒मिधा॒ समि॑द्ध उ॒त ब॒र्हिरु॑र्वि॒या वि स्तृ॑णीताम् ॥

पदपाठः

अग्ने॑ । भव॑ । सु॒ऽस॒मिधा॑ । सम्ऽइ॑द्धः । उ॒त । ब॒र्हिः । उ॒र्वि॒या । वि । स्तृ॒णी॒ता॒म् ॥

सायणभाष्यम्

हे अग्ने सुषमिधा शोभनया समिधा समिद्धोभव सम्यक् दीप्तोभव । उतापि च बर्हिरुर्विया विस्तीर्णं विस्तृणीतां उपस्तृणीतमध्वर्युः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३