मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १७, ऋक् ३

संहिता

अग्ने॑ वी॒हि ह॒विषा॒ यक्षि॑ दे॒वान्त्स्व॑ध्व॒रा कृ॑णुहि जातवेदः ॥

पदपाठः

अग्ने॑ । वी॒हि । ह॒विषा॑ । यक्षि॑ । दे॒वान् । सु॒ऽअ॒ध्व॒रा । कृ॒णु॒हि॒ । जा॒त॒ऽवे॒दः॒ ॥

सायणभाष्यम्

हे जातवेदः जातधनाग्ने वीहि देवानभिगच्छ हविषा देवान्यक्षि यजच स्वध्वरा स्वध्वरान् शोभनयज्ञांश्च कृणुहि कुरु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३