मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् ५

संहिता

अर्णां॑सि चित्पप्रथा॒ना सु॒दास॒ इन्द्रो॑ गा॒धान्य॑कृणोत्सुपा॒रा ।
शर्ध॑न्तं शि॒म्युमु॒चथ॑स्य॒ नव्य॒ः शापं॒ सिन्धू॑नामकृणो॒दश॑स्तीः ॥

पदपाठः

अर्णां॑सि । चि॒त् । प॒प्र॒था॒ना । सु॒ऽदासे॑ । इन्द्रः॑ । गा॒धानि॑ । अ॒कृ॒णो॒त् । सु॒ऽपा॒रा ।
शर्ध॑न्तम् । शि॒म्युम् । उ॒चथ॑स्य । नव्यः॑ । शाप॑म् । सिन्धू॑नाम् । अ॒कृ॒णो॒त् । अश॑स्तीः ॥

सायणभाष्यम्

नव्यः स्तुत्यइन्द्रः अर्णांसि शत्रुभिर्विदारितायाः परुष्णया उदकानि पप्रथाचित् प्रथमानान्यपि सुदासे राज्ञे गाधानि सुपारा सुपाराणि पारयितुं तर्तुं योग्यानि चाकृणोत् अकरोत् अपि च शर्धन्तं उत्साहमानं शिम्युं बोधमानं शापं विश्वरूपोद्धवमात्मनोभिशापं अशस्तीर- भिशस्तीश्च उचथस्य स्तोतुः सिन्धूनां नदीनामकृणोदकरोत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४