मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् ९

संहिता

ई॒युरर्थं॒ न न्य॒र्थं परु॑ष्णीमा॒शुश्च॒नेद॑भिपि॒त्वं ज॑गाम ।
सु॒दास॒ इन्द्र॑ः सु॒तुकाँ॑ अ॒मित्रा॒नर॑न्धय॒न्मानु॑षे॒ वध्रि॑वाचः ॥

पदपाठः

ई॒युः । अर्थ॑म् । न । नि॒ऽअ॒र्थम् । परु॑ष्णीम् । आ॒शुः । च॒न । इत् । अ॒भि॒ऽपि॒त्वम् । ज॒गा॒म॒ ।
सु॒ऽदासे॑ । इन्द्रः॑ । सु॒ऽतुका॑न् । अ॒मित्रा॑न् । अर॑न्धयत् । मानु॑षे । वध्रि॑ऽवाचः ॥

सायणभाष्यम्

अयेन्द्रः परुष्णयाः विच्छिन्नानि पर्वाणि सन्दधे ततः परुष्ण्या आपो यथापूर्वमर्थं गन्तव्यमेव प्रवणदेशं प्रति परुष्णीमीयुः आययांचक्रुः । इणूगतावितिधातोरन्तर्भावितण्यर्थाल्लिटि ईयुरिति अतोद्विकर्मकमाख्यातं न्यर्थं अगन्तव्यं परुष्णयाः पार्श्वयोः स्थितं निम्नं देशं प्रति परुष्णीं नेयुः आशुश्च न राज्ञः सुदासः अश्वोपि अभिपित्वमभिप्राप्तव्यमेव जगाम इन्द्रश्च सुदासे राज्ञे मानुषे लोके वध्रिवाचोजल्पकान् अमित्रान् शत्रून् सुतुकान् सुतोकान् तुक् तोकमित्यपत्यनामसु पाठात् अरन्धयत् बशमानयत् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५