मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् १२

संहिता

अध॑ श्रु॒तं क॒वषं॑ वृ॒द्धम॒प्स्वनु॑ द्रु॒ह्युं नि वृ॑ण॒ग्वज्र॑बाहुः ।
वृ॒णा॒ना अत्र॑ स॒ख्याय॑ स॒ख्यं त्वा॒यन्तो॒ ये अम॑द॒न्ननु॑ त्वा ॥

पदपाठः

अध॑ । श्रु॒तम् । क॒वष॑म् । वृ॒द्धम् । अ॒प्ऽसु । अनु॑ । द्रु॒ह्युम् । नि । वृ॒ण॒क् । वज्र॑ऽबाहुः ।
वृ॒णा॒नाः । अत्र॑ । स॒ख्याय॑ । स॒ख्यम् । त्वा॒ऽयन्तः॑ । ये । अम॑दन् । अनु॑ । त्वा॒ ॥

सायणभाष्यम्

अधापिच वज्रबाहुरिन्द्रः श्रुतं कवषं च वृद्धं च त्रीन् तथा द्रुह्युं अनु आनुपूर्व्येण अप्सूदकेषु निवृणक् न्यमज्जयदित्यर्थः अत्रास्मिन्नवसरे ये त्वायन्तः त्वत्कामाः त्वा त्वां अन्वमदन् अस्तवन् ते सखायः सख्याय सख्यार्थं त्वां वृणानाः सख्यं लेभिरइति शेषः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६