मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १८, ऋक् १६

संहिता

अ॒र्धं वी॒रस्य॑ शृत॒पाम॑नि॒न्द्रं परा॒ शर्ध॑न्तं नुनुदे अ॒भि क्षाम् ।
इन्द्रो॑ म॒न्युं म॑न्यु॒म्यो॑ मिमाय भे॒जे प॒थो व॑र्त॒निं पत्य॑मानः ॥

पदपाठः

अ॒र्धम् । वी॒रस्य॑ । शृ॒त॒ऽपाम् । अ॒नि॒न्द्रम् । परा॑ । शर्ध॑न्तम् । नु॒नु॒दे॒ । अ॒भि । क्षाम् ।
इन्द्रः॑ । म॒न्युम् । म॒न्यु॒ऽभ्यः॑ । मि॒मा॒य॒ । भे॒जे । प॒थः । व॒र्त॒निम् । पत्य॑मानः ॥

सायणभाष्यम्

इन्द्रः अभिक्षां भूमिमभि भूम्यामित्यर्थः । वीरस्य वीर्ययुक्तस्य सुदासः अर्धं हिंसकं अर्धे र्हिंसाकर्मणोर्धशब्दस्य निष्पत्तिः अनिन्द्रं यस्यबु- द्धाविन्द्रोनास्यसावनिन्द्रः तमिन्द्रमगणयन्तमित्यर्थः श्रृतपां श्रृतस्य क्षीरादेः हविषः पातारं शर्धंतं उत्सहमानं परा नुनुदे किंच मन्युम्यो- मन्युकर्तुः मन्युना मिनतोहिंसतो वा शत्रोर्मन्युं क्रोधं मिमाय बबाधे अथ सुदासः शत्रुः पथो मार्गान् पत्यमानोगच्छन् वर्तनिं पलायन- मार्गं भेजे प्राप ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७