मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २१, ऋक् १

संहिता

असा॑वि दे॒वं गोऋ॑जीक॒मन्धो॒ न्य॑स्मि॒न्निन्द्रो॑ ज॒नुषे॑मुवोच ।
बोधा॑मसि त्वा हर्यश्व य॒ज्ञैर्बोधा॑ न॒ः स्तोम॒मन्ध॑सो॒ मदे॑षु ॥

पदपाठः

असा॑वि । दे॒वम् । गोऽऋ॑जीकम् । अन्धः॑ । नि । अ॒स्मि॒न् । इन्द्रः॑ । ज॒नुषा॑ । ई॒म् । उ॒वो॒च॒ ।
बोधा॑मसि । त्वा॒ । ह॒रि॒ऽअ॒श्व॒ । य॒ज्ञैः । बोध॑ । नः॒ । स्तोम॑म् । अन्ध॑सः । मदे॑षु ॥

सायणभाष्यम्

देवं दीप्तं गोऋजीकं गोभिः संस्कृतं गव्येन मिश्रितमित्यर्थः अंधः सोमरूपमन्नं असावि अभिषुतम् । ईमयमिन्द्रोस्मिन्नभिषुते सोमरूपधसि जनुषा स्वभावतएव न्युवोच नितरां संगतो भवति । अथ प्रत्यक्षस्तुतिः हे हर्यश्व त्वा त्वां यज्ञैः स्तोत्रैः हविर्भिर्वा बोधामसि बोधयामः । अन्धसः सोमस्य मदेषु नोस्माकं स्तोमं स्तोत्रं बोध बुध्यस्व च ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः