मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २१, ऋक् ६

संहिता

अ॒भि क्रत्वे॑न्द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मानं॒ रजां॑सि ।
स्वेना॒ हि वृ॒त्रं शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तं॑ विविदद्यु॒धा ते॑ ॥

पदपाठः

अ॒भि । क्रत्वा॑ । इ॒न्द्र॒ । भूः॒ । अध॑ । ज्मन् । न । ते॒ । वि॒व्य॒क् । म॒हि॒मान॑म् । रजां॑सि ।
स्वेन॑ । हि । वृ॒त्रम् । शव॑सा । ज॒घन्थ॑ । न । शत्रुः॑ । अन्त॑म् । वि॒वि॒द॒त् । यु॒धा । ते॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं क्रत्वा कर्मणा ज्मन् पृथिव्यां वर्तमानान् जन्तून्वा अभिभूः अभ्यभूः अधापिच ते तव महिमानं रजांसि सर्वेलोका न विव्यक् व्यचिर्व्याप्तिकर्मा न व्याप्नुवन्नित्यर्थः स्वेन हि आत्मीयेन च शवसा बलेन वृत्रं जघंथ त्वमवधीः शत्रुश्च युधा युद्धेन ते तवांतं हिंसां न विविदत् नलब्धवान् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः