मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २३, ऋक् २

संहिता

अया॑मि॒ घोष॑ इन्द्र दे॒वजा॑मिरिर॒ज्यन्त॒ यच्छु॒रुधो॒ विवा॑चि ।
न॒हि स्वमायु॑श्चिकि॒ते जने॑षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ॥

पदपाठः

अया॑मि । घोषः॑ । इ॒न्द्र॒ । दे॒वऽजा॑मिः । इ॒र॒ज्यन्त॑ । यत् । शु॒रुधः॑ । विऽवा॑चि ।
न॒हि । स्वम् । आयुः॑ । चि॒कि॒ते । जने॑षु । तानि॑ । इत् । अंहां॑सि । अति॑ । प॒र्षि॒ । अ॒स्मान् ॥

सायणभाष्यम्

यद्यदा शुरुधः शुचं संरुन्धन्तीति शुरुध ओषध्य इरज्यन्त वर्धन्ते तदा हे इन्द्र त्वदर्थं विवाचि स्तोतरि देवजामिर्देवानां बन्धुः घोषः स्तुतिरूपः शब्दः अयामि अकारि अपि च जनेषु मध्ये केनापि स्वमायुः स्वं जीवितं नहि निकिते ज्ञायते थैरायुः क्षीयते तानीत् तानि सर्वाण्येव अंहांसि पापान्यस्मानतिपर्षि अतिपारय ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः