मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २४, ऋक् ५

संहिता

ए॒ष स्तोमो॑ म॒ह उ॒ग्राय॒ वाहे॑ धु॒री॒३॒॑वात्यो॒ न वा॒जय॑न्नधायि ।
इन्द्र॑ त्वा॒यम॒र्क ई॑ट्टे॒ वसू॑नां दि॒वी॑व॒ द्यामधि॑ न॒ः श्रोम॑तं धाः ॥

पदपाठः

ए॒षः । स्तोमः॑ । म॒हे । उ॒ग्राय॑ । वाहे॑ । धु॒रिऽइ॑व । अत्यः॑ । न । वा॒जय॑न् । अ॒धा॒यि॒ ।
इन्द्र॑ । त्वा॒ । अ॒यम् । अ॒र्कः । ई॒ट्टे॒ । वसू॑नाम् । दि॒विऽइ॑व । द्याम् । अधि॑ । नः॒ । श्रोम॑तम् । धाः॒ ॥

सायणभाष्यम्

महे महते अग्राय उद्गूर्णाय ओजस्विने वा वाहे विश्वस्य वोढ्रे इन्द्राय धुरीव रथस्य अत्योनाश्वइव वाजयन् बलं कुर्वन् एषः स्तोमः अधायि व्यधायि । अथ प्रत्यक्षस्तुतिः हेइन्द्र त्वा त्वां अयमर्कः स्तोता वसूनां वसूनि धनानि ईट्टे याचते सत्वं नोस्मासु द्यां दिवीव श्रोमतं श्रवणीयमन्नं पत्रं वा अधि धाः अधि धेहि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः