मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २६, ऋक् ३

संहिता

च॒कार॒ ता कृ॒णव॑न्नू॒नम॒न्या यानि॑ ब्रु॒वन्ति॑ वे॒धसः॑ सु॒तेषु॑ ।
जनी॑रिव॒ पति॒रेकः॑ समा॒नो नि मा॑मृजे॒ पुर॒ इन्द्र॒ः सु सर्वा॑ः ॥

पदपाठः

च॒कार॑ । ता । कृ॒णव॑त् । नू॒नम् । अ॒न्या । यानि॑ । ब्रु॒वन्ति॑ । वे॒धसः॑ । सु॒तेषु॑ ।
जनीः॑ऽइव । पतिः॑ । एकः॑ । स॒मा॒नः । नि । म॒मृ॒जे॒ । पुरः॑ । इन्द्रः॑ । सु । सर्वाः॑ ॥

सायणभाष्यम्

वेधसः स्तोत्राणां विधातारः सुतेषु अभिषुतेषु सोमेषु यानि कर्माणि ब्रुवन्ति ता तानि वृत्रवधादीनि कर्माणीन्द्रःअ पूर्वस्मिन्काले चकार नूनम् । संप्रति अन्या अन्यान्यपि कर्माणि कृणवत् कुर्यात् । अपि च सइन्द्रः सर्वाः पुरः शत्रुनगरीः समानः समवृत्तिः एकः असहायः पति- जनीरिव जायाइव सु निमामृजे सम्यगशोधयेत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०