मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २७, ऋक् ४

संहिता

नू चि॑न्न॒ इन्द्रो॑ म॒घवा॒ सहू॑ती दा॒नो वाजं॒ नि य॑मते न ऊ॒ती ।
अनू॑ना॒ यस्य॒ दक्षि॑णा पी॒पाय॑ वा॒मं नृभ्यो॑ अ॒भिवी॑ता॒ सखि॑भ्यः ॥

पदपाठः

नु । चि॒त् । नः॒ । इन्द्रः॑ । म॒घऽवा॑ । सऽहू॑ती । दा॒नः । वाज॑म् । नि । य॒म॒ते॒ । नः॒ । ऊ॒ती ।
अनू॑ना । यस्य॑ । दक्षि॑णा । पी॒पाय॑ । वा॒मम् । नृऽभ्यः॑ । अ॒भिऽवी॑ता । सखि॑ऽभ्यः ॥

सायणभाष्यम्

मघवा धनवान् दानोददानः सइन्द्रोनोस्माकं सहूती सहूत्या मरुद्भिः सहाह्वानेन वाजमन्नं नोस्मभ्यं ऊती ऊत्यै रक्षायै नूचित् क्षिप्रमेव नियमते प्रयच्छतु यस्येन्द्रस्य अनूना संपूर्णा अभिवीता अभिप्राप्ता दक्षिणा दानं सखिभ्यः स्तोतृभ्यो नृभ्यो वामं वननीयं धनं पीपाय दोग्धि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११