मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २९, ऋक् १

संहिता

अ॒यं सोम॑ इन्द्र॒ तुभ्यं॑ सुन्व॒ आ तु प्र या॑हि हरिव॒स्तदो॑काः ।
पिबा॒ त्व१॒॑स्य सुषु॑तस्य॒ चारो॒र्ददो॑ म॒घानि॑ मघवन्निया॒नः ॥

पदपाठः

अ॒यम् । सोमः॑ । इ॒न्द्र॒ । तुभ्य॑म् । सु॒न्वे॒ । आ । तु । प्र । या॒हि॒ । ह॒रि॒ऽवः॒ । तत्ऽओ॑काः ।
पिब॑ । तु । अ॒स्य । सुऽसु॑तस्य । चारोः॑ । ददः॑ । म॒घानि॑ । म॒घ॒ऽव॒न् । इ॒या॒नः ॥

सायणभाष्यम्

हे इन्द्र तुभ्यं त्वदर्थमयमेषसोमः सुन्वे अभिषुतोभवत् हे हरिवन्निन्द्र तदोकाः तत् सेवनीयोयस्यासौ तदोकाः तु क्षिप्रां आ प्रयाहि सुषुतस्य सम्यगभिषुतस्य चारोः शोभनस्यास्य द्वितीयार्थेषष्ठी सम्यगभिषुतं शोभनमित्यर्थः तु क्षिप्रं पिब च । अपि च हे मघवन् इयानः उपगम्यमानोयाच्यमानोवा त्वं मघानि धनानि ददः अस्मभ्यं देहि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३