मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३०, ऋक् ३

संहिता

अहा॒ यदि॑न्द्र सु॒दिना॑ व्यु॒च्छान्दधो॒ यत्के॒तुमु॑प॒मं स॒मत्सु॑ ।
न्य१॒॑ग्निः सी॑द॒दसु॑रो॒ न होता॑ हुवा॒नो अत्र॑ सु॒भगा॑य दे॒वान् ॥

पदपाठः

अहा॑ । यत् । इ॒न्द्र॒ । सु॒ऽदिना॑ । वि॒ऽउ॒च्छान् । दधः॑ । यत् । के॒तुम् । उ॒प॒ऽमम् । स॒मत्ऽसु॑ ।
नि । अ॒ग्निः । सी॒द॒त् । असु॑रः । न । होता॑ । हु॒वा॒नः । अत्र॑ । सु॒ऽभगा॑य । दे॒वान् ॥

सायणभाष्यम्

हे इन्द्र यद्यदा अहा अहानि सुदिना सुदिनानि व्युच्छान् व्युच्छेयुः यद्यदा च समत्सु संग्रामेषु केतुं ज्ञानमुपमं अन्तिकं दधः धारयेः तदा नेति संप्रत्यर्थे असुरोबलवान् होता देवानामाह्राताग्निः सुभगायास्माकं शोभनधनप्राप्तये देवान् हुवानो ह्वयन् अत्रास्मिन्यज्ञे निषीदत् न्यसीदत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४