मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३२, ऋक् १७

संहिता

त्वं विश्व॑स्य धन॒दा अ॑सि श्रु॒तो य ईं॒ भव॑न्त्या॒जयः॑ ।
तवा॒यं विश्व॑ः पुरुहूत॒ पार्थि॑वोऽव॒स्युर्नाम॑ भिक्षते ॥

पदपाठः

त्वम् । विश्व॑स्य । ध॒न॒ऽदाः । अ॒सि॒ । श्रु॒तः । ये । ई॒म् । भव॑न्ति । आ॒जयः॑ ।
तव॑ । अ॒यम् । विश्वः॑ । पु॒रु॒ऽहू॒त॒ । पार्थि॑वः । अ॒व॒स्युः । नाम॑ । भि॒क्ष॒ते॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं विश्वस्य सर्वस्य स्तोतुर्यजमानस्य वा धनदाः धनस्य दाता सन् श्रुतःप्रसिद्धोसि यईं यएते आजयो युद्धानि भवन्ति तेष्वपि धनदाः श्रुतोसि हे पुरुहूत विश्वः सर्वोप्ययं पार्थिवो जनः तव त्वत्तइत्यर्थः अवस्युः रक्षामिच्छन् नाम अन्नमुदकं वा बर्हिः नामेत्युदकः नामसु पाठात् भिक्षते याचते त्वामेवेतिशेषः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०