अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नवः॑ ।
ईशा॑नम॒स्य जग॑तः स्व॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुषः॑ ॥
अ॒भि । त्वा॒ । शू॒र॒ । नो॒नु॒मः॒ । अदु॑ग्धाःऽइव । धे॒नवः॑ ।
ईशा॑नम् । अ॒स्य । जग॑तः । स्वः॒ऽदृश॑म् । ईशा॑नम् । इ॒न्द्र॒ । त॒स्थुषः॑ ॥
हे शूरेन्द्र अस्य जगतो जंगमस्येशानमीश्वरं तस्थुषः स्थावरस्य चेशानं ईशानमिति पदस्यावृत्तिरादरार्था स्वर्दृशं सर्वदृशं त्वा त्वां अदु- ग्धाइव धेनवः यथा अदुग्धा धेनवः क्षीरपूर्णोधस्त्वेन वर्तन्ते तद्वत्सोमपूर्णचमसत्वेन वर्तमानावयं अभिनोनुमो भ्रुशमभिष्टुमः ॥ २२ ॥