मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३३, ऋक् ६

संहिता

द॒ण्डा इ॒वेद्गो॒अज॑नास आस॒न्परि॑च्छिन्ना भर॒ता अ॑र्भ॒कासः॑ ।
अभ॑वच्च पुरए॒ता वसि॑ष्ठ॒ आदित्तृत्सू॑नां॒ विशो॑ अप्रथन्त ॥

पदपाठः

द॒ण्डाःऽइ॑व । इत् । गो॒ऽअज॑नासः । आ॒स॒न् । परि॑ऽछिन्नाः । भ॒र॒ताः । अ॒र्भ॒कासः॑ ।
अभ॑वत् । च॒ । पु॒रः॒ऽए॒ता । वसि॑ष्ठः । आत् । इत् । तृत्सू॑नाम् । विशः॑ । अ॒प्र॒थ॒न्त॒ ॥

सायणभाष्यम्

गोअजनासो गवां प्रेरका दंडाइव यथादंडाः परिच्छिन्नपत्रोपशाखाभवन्ति तद्वद्भरताः तृत्सूनामेव राज्ञां भरता इतिनामान्तरेणोपादानं शत्रुभिः परिच्छिन्ना एवासन् इत् एवकारार्थः अर्भकासोर्भका अल्पाश्चासन् आदित् परिच्छिन्नत्वादन्तरमेव तेषां तृत्सूनां वसिष्ठः पुरएता पुरोहितोभवच्च तत्पौरोहित्य सामर्थ्यात् तृत्सूनां विशः प्रजाः अप्रथन्त अवर्धयन्त ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३