मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् ५

संहिता

अ॒भि प्र स्था॒ताहे॑व य॒ज्ञं याते॑व॒ पत्म॒न्त्मना॑ हिनोत ॥

पदपाठः

अ॒भि । प्र । स्था॒त॒ । अह॑ऽइव । य॒ज्ञम् । याता॑ऽइव । पत्म॑न् । त्मना॑ । हि॒नो॒त॒ ॥

सायणभाष्यम्

यज्ञस्तुतिरयं हे जनाः यज्ञमभिप्रस्थात अभिक्रमत अहेवेतिपूरणौ अपि च पत्मन् पत्मनि यज्ञमार्गे त्मना स्वयमेव यातेव गन्तेव हिनोत गच्छत । हिगतावितिधातुः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५