मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् ९

संहिता

अ॒भि वो॑ दे॒वीं धियं॑ दधिध्वं॒ प्र वो॑ देव॒त्रा वाचं॑ कृणुध्वम् ॥

पदपाठः

अ॒भि । वः॒ । दे॒वीम् । धिय॑म् । द॒धि॒ध्व॒म् । प्र । वः॒ । दे॒व॒ऽत्रा । वाच॑म् । कृ॒णु॒ध्व॒म् ॥

सायणभाष्यम्

हे जनावोयूयं अभि देवानुद्दिश्य देवीं दीप्तां धियं कर्म दधिध्वं वधतं अपि च वोयूयं देवत्रा देवेषु वाचं स्तुतिरूपां प्रकृणुध्वं प्रकर्षेण कुरुध्वं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५