मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् १२

संहिता

अवि॑ष्टो अ॒स्मान्विश्वा॑सु वि॒क्ष्वद्युं॑ कृणोत॒ शंसं॑ निनि॒त्सोः ॥

पदपाठः

अवि॑ष्टो॒ इति॑ । अ॒स्मान् । विश्वा॑सु । वि॒क्षु । अद्यु॑म् । कृ॒णो॒त॒ । शंस॑म् । नि॒नि॒त्सोः ॥

सायणभाष्यम्

अयं द्वृचोदैवः हे देवाः अस्मान् विश्वासु सर्वासु विक्षु प्रजासु । अविष्ट उइति समुदितमविष्टोइति । अविष्ट रक्षत शंसं निनित्सोः निन्दि- तुमिच्छतः शत्रोः अद्युं अदीप्तिं कृणोत कुरुत च ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६