मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् १४

संहिता

अवी॑न्नो अ॒ग्निर्ह॒व्यान्नमो॑भि॒ः प्रेष्ठो॑ अस्मा अधायि॒ स्तोमः॑ ॥

पदपाठः

अवी॑त् । नः॒ । अ॒ग्निः । ह॒व्य॒ऽअत् । नमः॑ऽभिः । प्रेष्ठः॑ । अ॒स्मै॒ । अ॒धा॒यि॒ । स्तोमः॑ ॥

सायणभाष्यम्

हव्यात् हव्यानामत्ताग्निः नमोभिरस्मदीयैर्नमस्कारैः प्रेष्ठः प्रियतमः सन् नोस्मान् अवीत् रक्षतु । अस्मैअग्नये स्तोयः स्तोत्रमधायि अस्माभिर्व्यधायि ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६