मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् १६

संहिता

अ॒ब्जामु॒क्थैरहिं॑ गृणीषे बु॒ध्ने न॒दीनां॒ रज॑स्सु॒ षीद॑न् ॥

पदपाठः

अ॒प्ऽजाम् । उ॒क्थैः । अहि॑म् । गृ॒णी॒षे॒ । बु॒ध्ने । न॒दीना॑म् । रजः॑ऽसु । सीद॑न् ॥

सायणभाष्यम्

अहिं मेघानां हन्तारं नदीनामुदकानां बुध्ने स्थाने बुध्नमन्तरिक्षं बद्धाअस्मिन् धृताआपइतिव्युत्पत्तेः तस्मिन् रजःसु उदकेषु सीदन् सीदन्तं अब्जां अप्सुजातं इममग्निं उक्थैः स्तोत्रैः गृणीषे । तथाचयास्कः-बुध्नेनदीनां रजस्सु उदकेषु सीदन् बुध्नमन्तरिक्षं बद्धाअस्मि- न्धृता आपइतीति ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६