मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् २४

संहिता

अनु॒ तदु॒र्वी रोद॑सी जिहाता॒मनु॑ द्यु॒क्षो वरु॑ण॒ इन्द्र॑सखा ।
अनु॒ विश्वे॑ म॒रुतो॒ ये स॒हासो॑ रा॒यः स्या॑म ध॒रुणं॑ धि॒यध्यै॑ ॥

पदपाठः

अनु॑ । तत् । उ॒र्वी इति॑ । रोद॑सी॒ इति॑ । जि॒हा॒ता॒म् । अनु॑ । द्यु॒क्षः । वरु॑णः । इन्द्र॑ऽसखा ।
अनु॑ । विश्वे॑ । म॒रुतः॑ । ये । स॒हासः॑ । रा॒यः । स्या॒म॒ । ध॒रुण॑म् । धि॒यध्यै॑ ॥

सायणभाष्यम्

तद्वक्ष्यमाणमुर्वी विस्तीर्णे रोदसी द्यावापृथिव्यावनुजिहातां अनुगच्छताम् अनुमन्येतामित्यर्थः द्युक्षोदीप्तर्निवासभूतः इन्द्रसखा इन्द्रसखः इन्द्रः सखा यस्येति बहुव्रीहिः वरुणश्च तदनुजिहातां द्विवचनान्तस्यैकवचनान्ततया विपरिणामः । येसहासः शत्रूणामभिभवितारस्ते मरुतोपि तदनुजिहतां अत्र बहुवचनान्ततया विपरिणामः । यदनुमन्तव्यं तदाह-धियध्यै धरणीयं धारयितुं रायोधनस्य धरुणं धाम स्थानं वयं स्याम भवेमेति ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७